॥ प्रथम ॥
ॐ यज्ञेन यज्ञम् अयजन्त देवाः ।
तानि धर्माणि प्रथमान्यासन ।
ते ह नाकं महिमानः सचन्त
यत्र पूर्वे साध्याः सन्ति देवाः ॥
------
॥ द्वितीय ॥
ॐ राजाधिराजाय प्रसह्य साहिने ।
नमो वयं वैश्रवणाय कुर्महे ।
स मे कामान् कामकामाय मह्यं
कामेश्वरो वैश्रवणो ददातु ।
कुबेराय वैश्रवणाय
महाराजाय नमः ॥
------
॥ तृतीय ॥
ॐ स्वस्ति ।
साम्राज्यं भौज्यं स्वाराज्यं
वैराज्यं पारमेष्ठ्यं
राज्यं महाराज्यम् आधिपत्यम् अयम् ।
समन्तपर्यायी स्यात्
सार्वभौमः सार्वायुषः
आन्ताद् आपरार्धात् ।
पृथिव्यै समुद्रपर्यन्तायाः
एकराळ् इति ॥
------
॥ चतुर्थ ॥
ॐ तदप्येष श्लोकोऽभिगीतः ।
मरुतः परिवेष्टारो
मरुतस्यावसन् गृहे ।
आवीक्षितस्य कामप्रेर्
विश्वे देवाः सभासद इति ॥